हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Sri Indira Ashtottara Shatanamavali – श्री इन्दिराष्टोत्तरशतनामावली


ओं इन्दिरायै नमः ।
ओं विष्णुहृदयमन्दिरायै नमः ।
ओं पद्मसुन्दरायै नमः ।
ओं नन्दिताखिलभक्तश्रियै नमः ।
ओं नन्दिकेश्वरवन्दितायै नमः ।
ओं केशवप्रियचारित्रायै नमः ।
ओं केवलानन्दरूपिण्यै नमः ।
ओं केयूरहारमञ्जीरायै नमः ।
ओं केतकीपुष्पधारण्यै नमः । ९

ओं कारुण्यकवितापाङ्ग्यै नमः ।
ओं कामितार्थप्रदायन्यै नमः ।
ओं कामधुक्सदृशा शक्त्यै नमः ।
ओं कालकर्मविधायिन्यै नमः ।
ओं जितदारिद्र्यसन्दोहायै नमः ।
ओं धृतपङ्केरुहद्वय्यै नमः ।
ओं कृतविद्ध्यण्डसंरक्षायै नमः ।
ओं नतापत्परिहारिण्यै नमः ।
ओं नीलाभ्राङ्गसरोनेत्रायै नमः । १८

ओं नीलोत्पलसुचन्द्रिकायै नमः ।
ओं नीलकण्ठमुखाराध्यायै नमः ।
ओं नीलाम्बरमुखस्तुतायै नमः ।
ओं सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै नमः ।
ओं समुद्रतनयायै नमः ।
ओं सर्वसुरकान्तोपसेवितायै नमः ।
ओं भार्गव्यै नमः ।
ओं भानुमत्यादिभावितायै नमः ।
ओं भार्गवात्मजायै नमः । २७

ओं भास्वत्कनकताटङ्कायै नमः ।
ओं भानुकोट्यधिकप्रभायै नमः ।
ओं पद्मसद्मपवित्राङ्ग्यै नमः ।
ओं पद्मास्यायै नमः ।
ओं परात्परायै नमः ।
ओं पद्मनाभप्रियसत्यै नमः ।
ओं पद्मभूस्तन्यदायिन्यै नमः ।
ओं भक्तदारिद्र्यशमन्यै नमः ।
ओं मुक्तिसाधकदायिन्यै नमः । ३६

ओं भुक्तिभोग्यप्रदायै नमः ।
ओं भव्यशक्तिमदीश्वर्यै नमः ।
ओं जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः ।
ओं जगन्मात्रे नमः ।
ओं जयकर्यै नमः ।
ओं जयशीलायै नमः ।
ओं सुखप्रदायै नमः ।
ओं चारुसौभाग्यसद्विद्यायै नमः ।
ओं चामरद्वयशोभितायै नमः । ४५

ओं चामीकरप्रभायै नमः ।
ओं सर्वचातुर्यफलरूपिण्यै नमः ।
ओं राजीवनयनारम्यायै नमः ।
ओं रामणीयकजन्मभुवे नमः ।
ओं राजराजार्चितपदायै नमः ।
ओं राजमुद्रास्वरूपिण्यै नमः ।
ओं तारुण्यवनसारङ्ग्यै नमः ।
ओं तापसार्चितपादुकायै नमः ।
ओं तात्त्विक्यै नमः । ५४

ओं तारकेशार्कताटङ्कद्वयमण्डितायै नमः ।
ओं भव्यविश्राणनोद्युक्तायै नमः ।
ओं सव्यक्तसुखविग्रहायै नमः ।
ओं दिव्यवैभवसम्पूर्णायै नमः ।
ओं नव्यभक्तिशुभोदयायै नमः ।
ओं तरुणादित्यताम्रश्रियै नमः ।
ओं करुणारसवाहिन्यै नमः ।
ओं शरणागतसन्त्राणचरणायै नमः ।
ओं करुणेक्षणायै नमः । ६३

ओं वित्तदारिद्र्यशमन्यै नमः ।
ओं वित्तक्लेशनिवारिण्यै नमः ।
ओं मत्तहंसगतये नमः ।
ओं सर्वसत्तायै नमः ।
ओं सामान्यरूपिण्यै नमः ।
ओं वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै नमः ।
ओं वारिजेक्षणहृत्केकिवारिदायितविग्रहायै नमः ।
ओं दृष्ट्याऽऽसादितविद्ध्यण्डायै नमः ।
ओं सृष्ट्यादिमहिमोच्छ्रयायै नमः । ७२

ओं आस्तिक्यपुष्पभृङ्ग्यै नमः ।
ओं नास्तिकोन्मूलनक्षमायै नमः ।
ओं कृतसद्भक्तिसन्तोषायै नमः ।
ओं कृत्तदुर्जनपौरुषायै नमः ।
ओं सञ्जीविताशेषभाषायै नमः ।
ओं सर्वाकर्षमतिस्नुषायै नमः ।
ओं नित्यशुद्धायै नमः ।
ओं परायै बुद्धायै नमः ।
ओं सत्यायै नमः । ८१

ओं संविदनामयायै नमः ।
ओं विजयायै नमः ।
ओं विष्णुरमण्यै नमः ।
ओं विमलायै नमः ।
ओं विजयप्रदायै नमः ।
ओं श्रीङ्कारकामदोग्ध्र्यै नमः ।
ओं ह्रीङ्कारतरुकोकिलायै नमः ।
ओं ऐङ्कारपद्मलोलम्बायै नमः ।
ओं क्लीङ्कारामृतनिम्नगायै नमः । ९०

ओं तपनीयाभसुतनवे नमः ।
ओं कमनीयस्मिताननायै नमः ।
ओं गणनीयगुणग्रामायै नमः ।
ओं शयनीयोरगेश्वरायै नमः ।
ओं रमणीयसुवेषाढ्यायै नमः ।
ओं करणीयक्रियेश्वर्यै नमः ।
ओं स्मरणीयचरित्रायै नमः ।
ओं तरुण्यै नमः ।
ओं यज्ञरूपिण्यै नमः । ९९

ओं श्रीवृक्षवासिन्यै नमः ।
ओं योगिधीवृत्तिपरिभावितायै नमः ।
ओं प्रावृड्भार्गववारार्च्यायै नमः ।
ओं संवृतामरभामिन्यै नमः ।
ओं तनुमध्यायै नमः ।
ओं भगवत्यै नमः ।
ओं मनुजापिवरप्रदायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं बिल्वाश्रितायै नमः । १०८

इति श्री इन्दिराष्टोत्तरशतनामावली ।


 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.