हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ashtalakshmi Dhyana Shlokah – अष्टलक्ष्मी ध्यान श्लोकाः
श्री आदि लक्ष्मीः –
द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥
श्री सन्तान लक्ष्मीः –
जटामकुटसम्युक्तां स्थिरासन समन्विताम् ।
अभयं कटकं चैव पूर्णकुम्भं करद्वये ॥
कञ्चुकं सन्नवीतं च मौक्तिकं चाऽपि धारिणीम् ।
दीप चामर हस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥
बालसेनानि सङ्काशां करुणापूरिताननाम् ।
महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥
श्री गज लक्ष्मीः –
चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् ।
पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥
ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् ।
पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥
श्री धन लक्ष्मीः –
किरीटमुकुटोपेतां स्वर्णवर्ण समन्विताम् ।
सर्वाभरणसम्युक्तां सुखासन समन्विताम् ॥
परिपूर्णं च कुम्भं च दक्षिणेन करेण तु ।
चक्रं बाणं च ताम्बूलं तदा वामकरेण तु ॥
शङ्खं पद्मं च चापं च कुण्डिकामपि धारिणीम् ।
सकञ्चुकस्तनीं ध्यायेद्धनलक्ष्मीं मनोहराम् ॥
श्री धान्य लक्ष्मीः –
वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥
श्री विजय लक्ष्मीः –
अष्टबाहुयुतां देवीं सिंहासनवरस्थिताम् ।
सुखासनां सुकेशीं च किरीटमकुटोज्ज्वलाम् ॥
श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् ।
खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥
खेटकं चाङ्कुशं शङ्खं वरदं वामहस्तके ।
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥
हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥
श्री धैर्य लक्ष्मीः –
अष्टबाहुयुतां लक्ष्मीं सिंहासनवरस्थिताम् ।
तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥
स्वर्णकञ्चुकसम्युक्तां सन्नवीततरां शुभाम् ।
अभयं वरदं चैव भुजयोः सव्यवामयोः ॥
चक्रं शूलं च बाणं च शङ्खं चापं कपालकम् ।
दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥
श्री ऐश्वर्य लक्ष्मीः –
चतुर्भुजां द्विनेत्रां च वराभयकरान्विताम् ।
अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥
ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् ।
सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥
चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः ।
आपादलम्बिवसनां करण्डमकुटां भजे ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.